SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ "उपदेश - १२" नादपूजां वितन्वन्ति ये मानवाः, श्रीजिनेन्दोः स्थिरस्फीतभावोद्यताः । तीर्थकृत्वं लभन्तेऽद्भुतं ते यथा, रावणो राक्षसानामधीशः पुरा ।।१।। अस्ति लङ्कापुरी यत्र, त्रिकुटो नाम पर्वतः । दुर्गायते समुद्रस्तु परिखोपमतां दधौ । । १ ।। आढयंभविष्णुर्विद्याभिस्तत्र रावणभूपतिः । त्रिखण्ड विजयी विश्व- कण्टको राक्षसाधिपः ।।२।। तस्य मन्दोदरी भार्या, चतुःषष्टिकलास्पदम् । शीलरूपादयो यस्याः, गुणा वर्ण्याः सुरैरपि ।।३।। तया सह विमानेन, प्रस्थितो रावणोऽन्यदा । यात्रायै सर्वतीर्थाना -मात्मपावनहेतवे ।।४।। क्रमेणाष्टापदं प्राप्त -श्चतुर्विंशतितीर्थपान् । स्वस्ववर्णप्रमाणाद्यै-रुपेतान् पर्यपूपुजत् ।।५ ।। दृष्ट्वाऽथ धरणेन्द्रं स प्राप्तं तत्र महामनाः । अपृच्छत् पर्वतः कोऽयं, चैत्यं केन च कारितम् ? ।।६।। . अवादीद्धरणोऽप्येवं रावणाग्रे सविस्तरम् । अष्टापदस्य माहात्म्यं, केवलज्ञानिभाषितम् ।।७।। तथा च श्रीजिनप्रभसूरिपादाः - २४६ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy