________________
"उपदेश - १२"
नादपूजां वितन्वन्ति ये मानवाः, श्रीजिनेन्दोः स्थिरस्फीतभावोद्यताः । तीर्थकृत्वं लभन्तेऽद्भुतं ते यथा, रावणो राक्षसानामधीशः पुरा ।।१।।
अस्ति लङ्कापुरी यत्र, त्रिकुटो नाम पर्वतः । दुर्गायते समुद्रस्तु परिखोपमतां दधौ । । १ ।।
आढयंभविष्णुर्विद्याभिस्तत्र रावणभूपतिः । त्रिखण्ड विजयी विश्व- कण्टको राक्षसाधिपः ।।२।।
तस्य मन्दोदरी भार्या, चतुःषष्टिकलास्पदम् । शीलरूपादयो यस्याः, गुणा वर्ण्याः सुरैरपि ।।३।।
तया सह विमानेन, प्रस्थितो रावणोऽन्यदा । यात्रायै सर्वतीर्थाना -मात्मपावनहेतवे ।।४।।
क्रमेणाष्टापदं प्राप्त -श्चतुर्विंशतितीर्थपान् । स्वस्ववर्णप्रमाणाद्यै-रुपेतान् पर्यपूपुजत् ।।५ ।।
दृष्ट्वाऽथ धरणेन्द्रं स प्राप्तं तत्र महामनाः । अपृच्छत् पर्वतः कोऽयं, चैत्यं केन च कारितम् ? ।।६।। .
अवादीद्धरणोऽप्येवं रावणाग्रे सविस्तरम् ।
अष्टापदस्य माहात्म्यं, केवलज्ञानिभाषितम् ।।७।।
तथा च श्रीजिनप्रभसूरिपादाः -
२४६ उपदेश सप्तति