________________
चमत्कृतो नृपः प्राह, तं निजां भुझ्व सम्पदम् । ' सोऽप्याह गृहवासेऽस्मिन्, रमते न मनो मम ।।२६।।
ततो नृपतिपुत्राद्याः, प्रबुद्धास्तचरित्रतः । सोऽपि श्रीधर्ममाराध्य, क्रमात् सुगतिभागभूत् ।।२७।।
अथ ते चिन्तयाञ्चक्रुः, पुत्रा हृदयचक्षुषा । अहो ! कियदुपक्रान्तं, पित्राऽस्माकं हितेच्छुना ।।२८।।
विमृश्येति समस्तास्ते, तातोक्तविहितादराः । ऐहिकामुष्पिके कार्ये, सोद्यमं विदधुर्मन: ।।२९।।
इति रोषजुषापि निर्मिता, जिनपूजा विफला बभूव न । तदहो ! जिनपूजने जनाः !, प्रयतध्वं शिवसौख्यकांक्षिणः ! ।।३०।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे एकादश उपदेशः ।।११।।
४५ उपदेश सप्तति