________________
चौर्यव्यसनवानेष, क्रमाजातोऽतिदुष्टधीः । दुष्पूरोदरकार्ये हि, मूढाः किं किं न कुर्वते ? ।।१७।।
गृहे गृहे स चौर्यार्थं, स्वार्थाय विहितोद्यमः । प्रयाति परकीयाणि, द्रव्याणि जरिहर्ति च ।।१८।।
अन्यदा प्राग्भवावासं, स्तेयार्थं प्रविवेश सः । तादृग्गृहस्वरूपं च, दृष्ट्वा जातिस्मृतिं ययौ ।।१९।।
अन्तःस्वान्तसमुद्भूत-क्रोधदष्टरदच्छदः । । सुतान्वीक्ष्य स तादृक्षा-मनस्येवं विमृष्टवान् ।।२०।।
हाहा ! विनाशितं गेहं, वित्तं निर्गमितं मम । आलस्योपहतैरेतैः, साम्राज्यं कुनृपरिव ।।२१।। ..
शिक्षामिदानीमेतेषां, तथा कुर्वे यथा पुनः । नैवंविधं वितन्वन्ती-त्यादि यावत्स चिन्तयेत् ।।२२।।
तावजागरिताः पुत्राः, दृष्ट्वा चण्डालतस्करम् । रे दुष्ट ! किमिदं चक्रे, पापिष्टानिष्टदर्शन ! ।।२३।।
इत्यादि यत्तजल्पन्तः, प्रत्येकं ते चपेटया । प्राग्भवाभ्यासतस्तेन, क्रोधामातेन जनिरे ।।२४।।
निबध्योपनृपं नीत-स्तैः स भूपोऽपि तं जगौ । किमेतदिति सोऽप्याह, स्वस्वरूपं सविस्तरम् ।।२५।।
४४ उपदेश सप्तति