________________
प्राग्वद्विस्मारितास्ताव-त्कुञ्चिकास्तासु वीक्ष्य सः । अभूत्क्रोधोद्धतः ताम्रलोचनः स्फुरदोष्ठकः ।।९।। अहो ! सुतानां मूर्खत्व-महो ! हृदयशून्यता । पुनः पुनरिति ध्यायन्, क्रमाद्देवगृहं ययौ ।।१०।।
गृहे गत्वाऽद्य दुष्पुत्रां-स्तदहं मूर्खशेखरान् । नूनं निर्वासयिष्यामि, किमेभिः पापहेतुभिः ।।११।। ।
गयउं कडेवर देवहरि, मनमेल्हेवेवि णु हट्टि । . दुहलाहां एक नही, सूनी हुई ससट्टि ।।१।।
इत्यादि चिन्तयन्नेव, स देवाऽर्चा वितेनिवान् । . परं पुत्रेषु दौरात्म्यं, न तत्याज 'सुधीरयम् ।।१२।।
पूजाया अवसाने तु, कुर्वाणश्चैत्यवन्दनाम् । ' विधाय प्रणिधानं तु, भूमौ भालमलीलगत् ।।१३।। दैवयोगात्तथावस्थः, पञ्चत्वं प्राप्तवानसौ । . प्राणिनां प्राणितव्यं हि, तरङ्गतरलं यतः ।।१४।।
पुरे तत्रैव मृत्वाऽसौ, श्वपाकोऽभूदमुष्य तु । पूजानुभावा(?)न्मानुष्यं, दुर्थ्यांनाच कुयोनिता ।।१५।।
चण्डालस्य कुले सोऽथ, शैशवातिक्रमे क्रमात् । सम्प्राप्तयौवनः स्वीयं, कुटुम्बं परिपालयेत् ।।१६।।
२. “कुधीरयम्" इत्यादि ।।
४३ उपदेश सप्तति