________________
"उपदेश-११" क्रोधोदयेऽप्यर्हति पूज्यमाने, भवेत्सुबोधिः सुलभो नराणाम् । दृष्टान्तमत्र प्रकटं वदन्ति, तं वामनं श्रेष्ठिवरं कवीन्द्राः ।।१।।
नगर्यां वामनस्थल्यां, वामनः श्रेष्ठिपुङ्गवः । अभूत्कोटीध्वजः किन्तु, प्रकृत्येालुरुद्धतः ।।१।।
प्रासादं पुण्यशालां च, निर्माप्य स्वगृहान्तिके । धर्मकर्म करोत्येष, लक्ष्मीफलमिदं खलु ।।२।। रत्नस्वर्णप्रवालादि-वस्तूनां तस्य पेटिकाः । अब्धिद्विप ८४ मिताः सन्ति, कुञ्चिकातालकैर्युताः ।।३।।
निरुद्यमा निरुत्साहाः, व्यवसायादिकर्मसु । , दुर्विनीताः पशुप्राया-श्चत्वारस्तस्य नन्दनाः ।।४।। .
कदाचित्तालकं दत्वा, मूर्खास्तत्रैव कुञ्चिकाम् । .. विस्मारयन्ति श्रेष्ठी तु, निर्भर्त्सयति तान् भृशम् ।।५।।
परं किमपि तच्छिक्षा, सुतानां लालगीति न । दुःशिष्याणामिवाप्तस्यो-पदेशः पुण्यपेशलः ।।६।।
संमुखं स्वपितुर्यत्तत्', ते हि जल्पन्ति दुर्धियः । कलहं कुर्वतां तेषा-मेवं गच्छन्ति वासराः ।।७।। गच्छन् देवगृहेऽन्येद्युः, श्रेष्ठी पूजयितुं जिनान् । ग्रहीतुं चन्दनं यावत्, पेटामेकां विलोकते ।।८।। १. “स्ते तु यत्तत् ज-" "स्तेऽपि यत्तज्ज-" इत्यादि ।
४२ उपदेश सप्तति