________________
तां पङ्कजाक्षीमादाय, ललिताङ्गः पुरे निजे । जगाम सुखमक्षामं, बुभुजे च तया समम् ।।३७।।
तौ तत्रापि भवे प्रीती, दिवं प्रव्रज्य जग्मतुः । 'एवं तयोः प्रतिभवं, सुखाद्वैतमजायत ।।३।।
दशमेऽथ भवे कीर-जीव: पीवरपुण्यवान् । विदेहे पण्डरीकियां, चक्रवत्ती बभूव सः ।।३९।।
कीरीजीवः पुनस्तस्य, मन्त्री मैत्रीपवित्रितः । चिरं राज्यसुखान्येतो, स्नेहादनुबभूवतुः ।।४।।
प्रान्ते प्राच्यभवान् ज्ञानि-पार्श्वे विज्ञातपूर्विणी । . प्रव्रज्य केवलज्ञान-मवाप्य च शिवं गतौ ।।१।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे दशम उपदेशः ।।१०।।
१. प्रतिभवं तयोरवं ।
४१
उपदेश सप्तति