________________
"उपदेश-१०" गतानुगत्यापि विधीयमाना, पूजा परां सम्पदमादधाति । चटत्प्रकर्षां प्रतिजन्म लक्ष्मी, यथाऽऽप्य कीरोऽपि बभूव चक्री ।।१।।
वैताढ्यपर्वतोद्याने, क्वचिद्देवकुले वरे । अस्ति विद्याधरैः पूज्या, प्रतिमा काचिदार्हती ।।१।।
तथाविधां च तां दृष्ट्वा, कीरयोर्युग्ममन्यदा । आरण्यैः पत्रपुष्पाद्यैः, शुभभावमपूजयत् ।।२।। ..
इति भूरितरं कालं, सम्यक्त्वं प्राप्य पूजया । . अभूतां प्रथमे कल्पे, सुभगौ सुरदम्पती ।।३।।
इतश्च रमणीयाख्ये, विजये जनसङ्कले । श्रीमन्दिरे पुरे राजा, नरशेखरसंज्ञकः ।।४।।
प्रिया कीर्तिमती तस्य, कीरजीवस्ततश्च्युतः । , अभूत्तदीयस्तनयो, नाम्ना तु मणिकुण्डलः ।।५।
नगर्यां विजयावत्यां, तत्रैव विजये तदा । रत्नचूडः क्षमापालो, महादेवी तु तत्प्रिया ।।६।।
कीरीजीवस्तयोः पुत्री, पुरन्दरजसेत्यभूत् । चित्रपट्टेऽन्यदा तस्याः, कुमारो रूपमैक्षत ।।७।।
प्राचीनभवसम्बन्धात्, गाढव्यामूढमानसः । तामुत्सवैः पितृभ्यां स, प्रेमतः पर्यणाय्यत ।।८।।
३७ उपदेश सप्तति