________________
अश्रद्दधानस्तद्वाचं, खड्गमुत्पाट्य सोऽवदत् । करिष्ये त्वच्छिरश्छेदं, नोचेत्सत्यं वचो वद ।।९।।
तत्त्वं वाच्यं शिरश्छेदे, इति वेदवचः स्मरन् । यज्वा जगाद भो भट्ट !, योऽयमध्वरकीलकः । । १० ।।
तस्याधोभागभूम्यन्तर्निहिता प्रतिमार्हतः । विद्यते तत्प्रभावेण, क्षीयते विघ्नसन्ततिः ।।११।।
वैतालव्यन्तरप्रेत - शाकिनीराक्षसादयः । 'अवश्यमध्वरं घ्नन्ति, प्रतिमामाहतीं विना । । १२ ।।
बाह्यस्तु विस्तरः शेषः, सर्वोऽप्युदरपूर्त्तये । आडम्बरं विना लोको, बालिशो नहि मन्यते ।।१३।।
खानयित्वा ततस्तत्र, गृहीत्वाऽर्चा जिनेशितुः । भट्टो जगाम शालायां, नत्वाऽपृच्छच तान् गुरून् ।।१४।।
किंलक्षणः किंस्वरूपो, देवोऽयमभिधा तु का ? | ईदृक्षाः स्युः कियन्तश्च सर्वमावेद्यतां प्रभो ! । १५ । ।
रागादिविजयी तेजो-मयो मुक्तिपदस्थितः । देव : श्रीशान्तिनाथोऽयं, जिनानां षोडशः पुनः ।। १६ ।।
चतुर्विंशतिरीदृक्षा, भवन्तीत्यादि सूरिभिः । निवेद्यमाने तां भट्टो, दर्शं दर्शं व्यचिन्तयत् ।।१७।।
प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं, वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेव । । १८ ।।
सूरयोऽप्यचिरे वेदपुराणादिष्वपीक्ष्यते ।
जिनस्यैव हि देवत्वं, यजुर्वेदवचो यथा ।।१९।।
१. " अधमा अ-" इत्यपि ।।
३५ उपदेश सप्तति