SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ "उपदेश - ९ ' - जिनेन्द्रचन्द्रप्रतिमा तरीयते, निमज्जतां प्राणभृतां भवाम्बुधौ । तद्दर्शनादेव यतः प्रपन्नवान्, शय्यंभवः सूरिवरः सुदर्शनम् । । १ । । श्री जम्बूस्वामिनः शिष्याः, प्रभवस्वामिनोऽन्यदा । गच्छे सङ्खे च शिष्यार्थ-मुपयोगं वितेनिरे ।।१।। तथाविधसुपात्रस्य, तस्मिन्ननुपलब्धितः । ददुस्तदुपयोगं ते, परकीयेऽपि दर्शने । । २ । । तदा शय्यंभवं भट्टं, यज्ञनिर्म्मापणोद्यतम् । पुरे राजगृहेऽद्राक्षुः श्रुतज्ञानोपयोगतः । । ३ । । सर्वविद्यागुणोपेतं, योग्यं तमवधार्य ते । प्राहिण्वन् शिक्षयित्वा स्वं साधुयुग्मं तदन्तिके ।। ४ ।।. ताभ्यां शय्यंभवोऽश्रावि, तत्र श्लोकार्द्धमीदृशम् । अहो ! कष्टमहो ! कष्टं तत्त्वं न ज्ञायते पुनः ॥ ५ ॥ तयोरिति वचः श्रुत्वा दध्यौ भट्टोऽपि विस्मितः । नूनमेतौ महात्मानौ, जातु नासत्यवादिनौ । । ६ । । तत्किमप्यत्र यत्तत्त्वं, तन्त्र विद्यो जडा वयम् । ततः पप्रच्छ यज्वानं, सोऽप्येवं तमभाषत ।।७।। प्रष्टव्यमत्र किं नाम, यज्ञादेव यदात्मनाम् । रोगशान्तिः प्रजालाभो, विघ्नध्वंसश्च निश्चितम् ।।८।। ३४ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy