________________
आलापयत्सचैतन्यां, पुनस्तां मेदिनीश्वरः । सापि तं वृद्धमाकार्य, स्वस्वरूपं जगाविति ।।१८।।
अहमेतस्य वृद्धस्या-भवं प्राच्यभवे प्रिया । एतद्विम्बार्चया देव !, त्वत्प्रियात्र भवेऽभवम् ।।१९।।
.
बहूक्तेऽपि मया नैष, देवं पूजितवान्विभो !। तादृश्येवास्य तेनेय-मवस्थाद्यापि दृश्यते ।।२०।। यदुक्तम् -
अडविहिं पत्ती नई, जल होइ नवूढा हत्थ । . अजो एह कबाडीइं, अजवि सा जिअ वत्थ ।।१।।
प्रत्यभिज्ञाय तां तैस्तै-रभिज्ञानेनिजां प्रियाम् । वृद्धोऽपि देवपूजादि-धर्मकार्यरतोऽभवत् ।।२१।।
देवपालनरेन्द्रोऽपि, स्वप्रासादे पुरीजनैः। नित्यं प्रवर्तयामास, ध्वजपूजादिकोत्सवान् ।।२२।।
पालयित्वा चिरं राज्यं, प्रान्ते व्रतपवित्रितः । तया च भार्यया युक्तः, स भूपः प्राप निवृतिम् ।।२३।।
श्रुत्वेति रङ्कमात्रेऽपि, तादृक् साम्राज्यवैभवम् । श्रीजिनेन्द्रस्य पूजायां, कः स्यान्मन्दादरः पुमान् ? ।।२४।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारेऽष्टम उपदेशः ।।८।।
३३
उपदेश सप्तति