________________
देवपालोऽभ्यधाद्राज्यं, मह्यं देहि सुरोऽब्रवीत् । .सप्तमे दिवसे राज्यं, तव भावि न संशयः ।।९।।
तत्रैवाऽवसरे राजा, निष्पुत्रो मृतिमाप्तवान् । प्रधानैः पञ्चदिव्यानि, प्रकट्यन्ते स्म तत्क्षणात् ।।१०।।
सुरोक्तदिवसे तस्य, प्रसुप्तस्य, तरोस्तले । आगत्य तानि दिव्यानि, राज्यं प्राज्यमहं ददुः ।।११।।
साम्राज्ये तस्य जातेऽपि, केचनाज्ञां न मन्वते । कुर्वते प्रत्युतावज्ञां, नूनं कर्मकरो ह्यसौ ।।१२।।
देवपालोऽपि तं देव-मुपेत्येति व्यजिज्ञपत् । . . अलमेतेन राज्येन, वरं भृत्यत्वमेव मे ।।१३।। ,
देवोऽभ्यधात्कु(?)म्भकार-पार्वान्मृन्मयहस्तिनम् । कारयित्वा तमारुह्य, व्रजेस्त्वं राजपाटिकाम् ।।१४।।
एवं कृते तवावज्ञा, भाविनी न मनागपि । . देवपालस्तथा चक्रे, सर्वत्राज्ञा ततोऽभवत् ।।१५।।
.
अस्थापयञ्च तद्विम्बं, प्रासादे निजकारिते । प्राचीननृपतेः पुत्री, तस्य भार्या बभूवुषी ।।१६।।
पुरावहिः स्थितं कञ्चि-दृद्धं वीक्ष्यान्यदा तु सा । गवाक्षस्था गता मूर्छा, पश्यतोऽपि क्षमापतेः ।।१७।।
३२
उपदेश सप्तति