________________
"उपदेश-८" अज्ञानभावादपि पूजितो जिनो, विश्राणयत्यात्मपदं नृणां यतः । . अरण्यमध्यस्थितबिम्बपूजकः, स देवपालोऽपि हि मुक्तिमाप्तवान् ।।१।।
कस्यचिच्छ्रेष्ठिनो भृत्यो, देवपालोऽन्यदा वने । चारयन्महिषीरर्ह-द्विम्बमेकं व्यलोकत ।।१।।
..
अजानन्नपि तत्तत्त्वं, समीपतटिनीजलैः । प्रक्षाल्य पूजयामास, तद्विम्बं कुसुमादिभिः ।।२।।
अपूजिते (मया)ऽस्मिन्न मया, भोक्तव्यमिति निश्चयम् । कृत्वा समाधिसम्पन्नो, गमयामास वासरान् ।।३।।
वर्षारम्भेऽन्यदा नद्यां, पूरे जातेऽतिदुस्तरे । तस्थौ गेहे तदेकाग्र-स्तत्र गन्तुमशक्नुवन् ।।४।।
अस्मद्नेहेऽपि बिम्बानि, सन्ति तान्येव पूजयं । श्रेष्ठिनेत्युच्यमानोऽपि, न भुङ्क्ते स्म स कर्मकृत् ।।५।।
अथ सप्तदिनप्रान्ते, नदीपूरेऽपसर्पिते । यावद्विम्बान्तिके याति, तावत्सिंहं ददर्श सः ।।६।।
तं भयङ्करमप्येषो-ऽवगणय्य शृगालवत् । तं देवं पूजयामास, किं न सिध्यति सत्त्वतः ? ॥७॥ तत्रिश्चयेन सन्तुष्ट-स्तदधिष्ठायकः सुरः । प्राप्तः प्रत्यक्षतां प्राह, वरं वृणु महाशय ! ।।८।।
३१
उपदेश सप्तति