________________
यदुक्तम् -
पूर्वं वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः ।। अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधा-द्यस्यास्वाद्य वचः सुधां स जयतु श्रीहेमचन्द्रो गुरुः ।।१।।
स्वस्ति श्रीमती पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा, स्वःशक्रः प्रणिपत्य विज्ञपयति स्वामिंस्त्वया सुकृतम् ।
..
चन्द्रस्याङ्कमृगे यमस्य महिषे यादस्सु यादःपतेविष्णोर्मत्स्यवराहकच्छपकुले देवाभयं तन्वता ।।२।।
यावज्जीवमिति श्रीमद्धर्मेकच्छत्रतां सृजन् । यो भावी गणभृत्प्राच्यः, पद्मनाभजिनेशितुः ।।२३।।
इत्यल्पपूजापि जिनेश्वराणां, भवेदमन्दाभ्युदयैकहेतुः । अत: समग्रेऽपि हि धर्मकार्ये, सैवानिशं मुख्यतया विधेया ।।२४।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे सप्तम उपदेशः ।।
_* “संभार्याम्” इत्यपि । १. "ऽऽसाद्य" इत्यपि ।।
३०
उपदेश सप्तति