________________
माघेऽप्येवमुच्यते -
हरत्यवं सम्प्रति हेतुरेष्यतः, शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितयेऽपि योग्यताम् ।।१।।
विष्णुं प्रति नारदोक्तिः
जिनेन्द्रमहमप्याशु, पूजयामि ततो ध्रुवम् । यतो जिनेन्द्रपूजैव, प्रतिभूः सर्वसम्पदाम् ।।१।।
विमृश्येति पुरा द्यूत - जितैर्नवकपर्दकैः ।
आत्मीयैरेव पुष्पाणि, गृहीत्वाऽचितवान् जिनान् ।।१६ । । :
शुभाभिसन्धिपूतात्मोपवासं चापि तद्दिने । व्यधाद्गुरुमुखेनैष, भक्तिरङ्गतरङ्गितः । ।१७।।
मृत्वा क्रमात्स सञ्जातो, गूर्जरत्रानरेश्वरः । भूप: कुमारपालाख्यः, श्रावकः परमार्हतः ।। १८ ।।
ओढरोऽभूदुदय (?) नो, जयसिंहस्तु सार्थपः । हेमसूरिर्यशोभद्रः, एवं ते क्रमशोऽभवन् ।।१९।।
'कोङ्कणे च महाराष्ट्र', 'कीरे जालन्धरे' पुनः । "सपादलक्षे मेवाडे', 'दीपे कासीत' तथा ।। २० ।।
'कर्णाटे " गूर्जरे "लाटे, सौराष्ट्रे", "कच्छसैन्धवे । उझायां चैव "भम्भेर्यां " मारवे "मालवे तथा ।। २१ ।।
इत्यष्टादशदेशेषु, कलिकालेऽपि कश्मले । प्रावीवृतदमारिं यः, पुरा केनाप्यकारिताम् ।। २२ ।।
२९ उपदेश सप्तति