________________
श्राद्धभोजनरूपां त्वं, मायां मुञ्च त्रपां त्यज ।
प्रतार्यन्ते कथं मत्त्र्त्याः, सत्राडम्बरधारिणा ? ।।२७।।
तस्येति निष्ठुरां वाचं, श्रुत्वाऽपि न चुकोप सः । स्वपुण्या पूर्णतां जानन् प्रत्युत स्वं निनिन्द सः ।। २८ ।।
ज्ञात्वाऽथ नृपतेर्भावं, जगौ मन्त्री पवित्रवाक् । स्वामित्रयं श्राद्धरूप-च्छलकृत्कोऽपि निर्जरः ।। २९ ।।
श्राद्धवेषेऽस्ति ते भक्ति- यदि तत्तां समाचर । चन्दनागुरुकर्पूर- कस्तूरीप्रमुखां नृप ! ।। ३० ।।
श्रुत्वेति भूपतिर्धूपं, चन्दनागुरुमिश्रितम् । ददाह तत्पुरो भक्त्या, पुण्यं वाक्यं जगाद च ।। ३१ ।।
कस्त्वं श्रावकवेषेणे-हागान्मां पावितुं वद । कुर्बन्मयि कृपां देव !, प्रसीद प्रकटीभव ||३२||
पुरुहूतस्ततो रूपं प्रकटीकृत्य तं जगी । धन्यस्त्वमेव यस्येदृग्, भक्तिः साधम्पिके जने ||३३||
दृश्यन्ते कोटिशो विश्वे, स्वोदरंभरयो नराः । साधर्मिकस्यैकस्यापि न तु वात्सल्यकारकः ।। ३४ ।।
निर्माय निर्मायतया प्रशंसां, शक्रस्तदीयामिति रत्नकोटिः । प्रवृष्य दिव्यं च धनुः प्रदाय, स्वां राजधानीं समलञ्चकार ।। ३५ ।।
श्री दण्डवीयोsपि विधाय यात्रां, शत्रुञ्जये सङ्घपतेः पदं च । प्राप्यात्मदर्शादितकेवलश्रीः, क्रमा निर्वाणपुरे जगाम ।। ३६ ।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे षोडश उपदेशः । । १६ ।।
३०६ उपदेश सप्तति