________________
"उपदेशः-१६" गुणानुरागं गुणवजनेषु, साधर्मिकाणां सृजतां विधेयम् । वात्सल्यमुत्फुल्लधियाऽऽस्तिकौघैः, श्रीदण्डवीर्येण यथा कृतं तत् ।।१।।
वंशे श्रीभरतस्यासीत्, अयोध्यायां महीपतिः । अष्टमो दण्डवीर्याख्य-स्तेजसां यशसां निधिः ।।१।।
आचारं भरतेशस्य, श्राद्धभोजनलक्षणम् ।. . स सत्यापयति प्रोचै-स्त्रिखिण्डावनिमण्डनम् ।।२।।
स षोडशसहस्रेषु, राजसु स्फीतभक्तिषु । . निषण्णेष्वन्यदाऽऽस्थान्या-मलञ्चक्रे वरासनम् ।।३।।
गतेष्वथ च षट्कोटि-पूर्वेषु भरतादनु । सौधर्मेन्द्रः सभासीनः, सस्मार भगवद्गुणान् ।।४।।
तुष्टाव च स तं तादृक्, पुंरत्नश्रेयमीशितुः । . वंशं शाखाशतैर्युक्तं, जगदाऽऽलम्बनक्षमम् ।।५।।
वर्यवीर्यं दण्डवीर्य, गृणन्तं धर्ममार्हतम् । सौधर्मेन्द्रः सभासीनो, ददर्श ज्ञानचक्षुषा ।।६।।
श्राद्धवेषं सुरेशोऽथ, कृत्वाऽयोध्यामुपागमत् । उदस्य पाणिं भूपाय, स आशीर्वचनं जगौ ।।७।।
गृणन्तं चतुरो वेदान्, भरतेशेन निर्मितान् । दृष्टिपूते पथि न्यस्त-चरणं ब्रह्मधारिणम् ।।८।।
३०३ उपदेश सप्तति