________________
तन्मध्यादेकरत्नेन, स्वभर्तुरपरेऽहनि । सम्मील्य शस्यवस्तूनि, प्राज्यं भोज्यं व्यधत सा ।।२७।।
रत्नस्वरूपमप्राक्षीदोजनावसरे पतिम् । किमेतदिति सम्भ्रान्तः, स्ववृत्तं सोऽप्यभाषत ।।२८।।
श्रीधर्मस्यैव माहात्म्यं, तत्रूनमिदमावयोः । इति तो दम्पती धर्मे, चक्रतुर्निश्चलं मनः ।।२९।।
इत्थमेष पुनरद्भुतसम्प-त्प्राप्तितोऽजनि नृपादिषु मान्यः । पात्रदानजिनपूजनमुख्यं, पुण्यमेव भविकाः ! क्रियतां तत् ।।३०।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे पञ्चदश उपदेशः ।।१५।।
३०२ उपदेश सप्तति