________________
"उपदेश-७" अल्पापि पूजा विहिता जिनेशितुः, फलं महत्किं न तनोति देहिनाम् ? । कूष्माण्डवल्ली तनुकापि यच्छति, स्फारं फलं स्वाश्रितमानवेषु यत् ।।१।।
गूर्जरत्राभुवि त्राता, कुमारः परमार्हतः । अत्र चौलुक्यभूपालो, दृष्टान्तः परिकीर्त्यते ।।२।।
मालवान्तः क्वचित्पल्लया-मभूजेत्र इति श्रुतः । क्षत्रियः परलुण्टाक-चरटैः परिवारितः ।।१।। .
मुष्णात्यनेकशः सार्थान्, पुष्णाति व्यसनान्यपि । भद्रप्रकृतिरप्येष, चौरसंसर्गदूषितः ।।३।।
अन्यदा जेसलो नाम, सार्थपः क्वापि पत्तने । गच्छन् 'कथञ्चिद्विज्ञात-चरटैस्तैः सुदुघ्दैः ।।३।।
परःशतवणिक्पुत्र-र्व्यवसायार्थिभिर्युतः । सहस्त्रैर्दशभिः प्रौढ-पृष्टौहां च सवस्तुभिः ।।४।।
जैत्रस्तैश्चरटैः सर्वं, सार्थलोकमलुण्टयत् । सार्थपोऽप्युच्छलन्मन्युः, पुनः स्वं नगरं ययौ ।।५।।
तत्र विज्ञप्य राजानं, तस्यादाय बलं बहु । जधान पल्लीमागत्य, चरटानुत्कटानपि ।।६।।
१. ज्ञातः कथञ्चित्तु ।।
२७
उपदेश सप्तति