________________
"उपदेशः-१५" वित्तानि पात्रेषु वपन्तु हे जनाः !, भवाभिलाषो यदि वो न विद्यते । तादृक्षमक्षूणमसारसम्पदां, फलं हि दानादपरं न विद्यते ।।१।।
पुराऽवनिपुरे नाम्ना, प्रकृत्यापि च भद्रकः । अभूच्छ्रेष्ठी राजमान्यो, जायाऽप्येतत्सदृग्गुणा ।।१।।
अन्यदा दम्पती तौ श्रीधर्मं श्रुत्वा गुरोर्मुखात् । . तत्पाद्येऽभिग्रहान्कांश्चि-त्स्वीचक्रतुरकृतिमान् ।।२।।
त्रिः पूजां द्विः प्रतिक्रान्ति, भुक्तिमेकान्तरां च सः । सुपात्रदानसछित्त-त्यागाद्यं प्रतिपन्नवान् ।।३।।. . .
दयिताऽप्याददे सर्वं, तन्नमस्कृत्य तौ गुरून् । गृहे गतौ कियत्कालं, ताभ्यां धर्मश्च निर्ममे ।।४।।
अन्येधुर्द्रविणं क्षीणं, तस्य प्राक्कर्मयोगतः । . ततश्च वानरप्रायं, कोऽपि तं मन्यतेऽपि न ।।५।।
अथ भार्याऽऽह गच्छन्तु, भवन्तो मत्पितुर्गृहे । तत्र च द्रविणैराढ्याः , विद्यन्ते भ्रातरोऽपि मे ।।६।।
ते च तुभ्यं प्रदास्यन्ति, द्रव्यं कियदपि प्रभो ! । तेन त्वं व्यवसायादि, कारं कारं सुखीभव ।।७।।
इत्युक्तेऽप्यस्य नोत्साह-स्तत्र गन्तुं मनागपि । , श्वशुरस्य गृहे यानं, सतां लजाकरं खलु ।।८।।
२९९ उपदेश सप्तति