________________
याति यात्येष भोश्चौरः, इति भूपतिभाषिताः । कृतकोलाहलाः सर्वे, भटास्तमनुधाविताः ।।१५।।
अभिग्रहस्य मे भङ्गो, नूनमद्य भविष्यति ।. यतो याति विना चौर्य, दिनमद्यतनं मम ।।१६।।
इत्यादि चिन्तयंश्चौरो-ऽप्यग्रे गच्छन्नधो भुवि । अपश्यन् ज्ञानिनं कञ्चि-द्वदन्तमिति पर्षदि ।।१७।।
भो भोः प्राणिगणाः ! लब्ध्वा, मानुष्यं रत्नयोनिवत् । रत्नमेकं स्थिरीकार्य, दुर्लभं द्रव्यकोटिभिः ।।१८।।
ईदृग् रत्नं मयाऽद्यापि, चोरितं नास्ति किं कृतम् ? । इत्युत्कोऽभवद्यावत्तावन्मनिरभाषत ।।१९।। .
एक सामायिक रत्नं, दुष्पापममरैरपि । रागद्वेषादिदस्युभ्यो, रक्षणीयं प्रयत्नतः ।।२०।। . ,
अन्तर्मुहूर्त चित्तस्य, यत्साम्यं तनिगद्यते । सामायिकं यत्र हेयाः, कषाया एव केवलम् ।।२१।।
न बाह्याऽऽडम्बरः कोऽपि, यस्य दानादिपुण्यवत् । । तद्यथाऽवसरं कार्य-महोरात्रमुपासकैः ।।२२।।
श्रुत्वेति केसरी चौर-स्तत्र सस्पृहतां दधत् । मनःसाक्षिकमातेने, व्रतं सामायिकाऽभिधम् ।।२३।।
२८८ उपदेश सप्तति