________________
चौर्यं विना न भोक्तव्यं, मयेत्यस्याऽस्त्यभिग्रहः । - एतद्विशेषसम्बन्धः, पुनरित्यवधार्यताम् ।।६।।
एकदाऽयं सरस्तीरे, स्थितो ध्यायति दुष्टधीः । यावत्तावनभोमार्गे, पादुके पदयोर्दधत् ।।७।।
योगी कोऽप्यागतस्तत्र, ते मुक्त्वा तत्र यावता । स्नानादि कुरुते ताव-ते लात्वैष खमुद्ययौ ।।८।।
.
तयोः प्रभावादेकोऽपि, नैकतस्करकार्यकृत् । दुष्टरोग इवाऽसाध्यो, पुरस्याऽयं विभोऽभवत् ।।१।।
पुराधिष्ठातृदेव्यग्रे, वक्ति चैवं स्तुतिं सृजन् । चौरिकार्द्धन ते भोगं, करिष्येऽद्धं ममाऽस्तु च ।।१०।।
भाविनी सफला सा चे-त्प्रसादात्तव देवि ! मे । अनुज्ञातस्तयाऽप्येष, सिद्धचौरस्ततोऽभवत् ।।११।।
भूपोऽथ लब्धतन्मा , सारैः परिवृतो भटैः । देवीभवनमागत्य, प्रच्छन्नं स्थितवान् क्वचित् ।।१२।।
तदा च तस्करोऽप्यागात्, तां देवीं जननीमिव । अचिंतुं पादुके पाणौ-कृत्य कस्याऽप्यविश्वसन् ।।१३।।
भूपतिः प्रकटीभूय, तमाक्रोशति यावता । पक्षिवत्तावदुहीनः, पादुके परिधाय सः ।।१४।।
..
२८७ उपदेश सप्तति