________________
भद्रकस्तु स्वनियम, प्रतिपाल्य सुरोऽभवत् । सौधर्मे प्रौढिमांस्तेषां, भिन्न भिन्नमहो ! फलम् ।।१६।।
श्राद्धजीवस्ततः क्वाऽपि, निःस्वद्विजसुतोऽभवत् । . श्रीपुञ्जनामा मिथ्यात्वि-जीवस्तल्लघुबान्धवः ।।१७।।
कुले तत्र प्रसक्तो तौ, रात्रिभुक्त्यादिकर्मसु । न ज्ञातवन्तौ श्रीजैन-धर्मगन्धमपि क्वचित् ।।१८।।
भद्रकत्रिदशोऽन्येद्यु-रुपयुक्तो रहस्तयोः । स्वरूपप्राच्यभव-ज्ञापनादि वितेनिवान् ।।१९।।
प्रबुद्धाभ्यां ततस्ताभ्यां, रात्रिभोजननिश्चयः । तथैव प्रतिपन्नस्तो, सुरेण च दृढीकृतौ ।।२०।।
यदुक्तम् -
पापानिवारयति योजयते हिताय, गुह्यं निगृहति गुणान् प्रकटीकरोति । आपद्गतंचनजहातिददातिकाले, सन्मित्रलक्षणमिदंप्रवदन्तिधीराः ।।१।।
जनकादिबहूक्तेऽपि, स्वव्रते दृढयोस्तयोः । लङ्घनत्रितयं जातं, सर्वे[क्तिनिषेधने ।।२१।।
तयोनिश्चयमाहात्म्य-वृद्धयै तत्रत्यभूभुजः । विचक्रे तेन देवेन, महती जठरव्यथा ।।२२।।
यथा यथा प्रतीकारः, क्रियतेऽस्य तथा तथा । अधिकं वर्द्धते व्याधिर्वह्निज्वालेव सर्पिषा ।।२३।।
२८४ उपदेश सप्तति