________________
तत्राप्यवधिना ज्ञात्वा, वीरं वन्दितुमागतः । अतुच्छच्छविसम्भार-च्छादितापरदीधितिः ।।१५।।
स्वस्वस्थाननिविष्टेषु, शक्रमापादिषु प्रभुः ।। गिरा योजनगामिन्या, प्रारंभे धर्मदेशनाम् ।।१६।।
स्थित्वा जिनान्तिकेऽन्येषां, कुष्ठिरूपं च दर्शयन् । व्यलिम्पत वपुर्जनं, स दिव्यैश्चान्दनैः रसैः ।।१७।। .
श्रेणिकाद्यास्तु जानन्ति, कुष्ठी कोऽप्येष दुष्टधीः । आः ! करोति स्वदेहोत्थ-रसिकाभिविलेपनम् ।।१८।।
इतो बहिर्गतः पापी, श्रीजिनाशातनाकरः । .. मारणीयो मया नून-मिति दध्यौ नृपस्तदा ।।१९।।
इतश्च स जिन १ क्षमापा २-ऽभय ३ शौकरिकान् ४ क्षुत कृतपूर्बिण उद्दिश्य, क्रमाद्वाक्यान्यमून्यवक् ।।२०।।
सद्यो म्रियस्व १ जीव त्वं २, चिरं जीव म्रियस्व वा ३ । मा जीव मा म्रियस्वेति ४, ततो रुष्टो भृशं नृपः ।।२१।।
देशनान्ते क्षणात्तस्मिन्, विद्युदुद्द्योतवद्गते । अप्राक्षीद्भूपतिवीरं, कोऽयं कुष्ठी ? प्रभो ! वद ।।२२।।
तवाप्याशातनामेवं, यश्चकार दुराशयः । एतावत्समुदायेऽपि, शीर्षच्छेद्यः स निश्चितम् ।।२३।।
२५ उपदेश सप्तति