________________
मासे च विंशतिदिना-न्यावयोः शीलमुत्तमम् । कचोलं भाजनं चैकं, सौवर्णे ते उभे परम् ।।९।।
वासरे चैकशो भुक्तिः, पौषधः पर्ववासरे । चतुष्प्रकाराहारस्य, त्यागो रात्रौ च सर्वथा ।।१०।।
एकं च टङ्ककशतं, जीर्णनाणकसम्भवम् । मासयोग्यं गृहे धान्यं, नियमो द्विपदादिषु ।।११।।
सछित्तमेकं मुक्त्वाऽन्य-सचित्तनियमोऽस्तु नः । पूजोपकरणं सर्व, मुत्कलं परमावयोः ।।१२।।
एवं सम्यक्त्वमूलानि, व्रतानि द्वादशाऽप्यम् । प्रतिपद्य गृहं गत्वा, व्ययतः स्म समां श्रियम् ।।१३।।
स विश्राणितसर्वस्वो, निश्चिन्तो दशमे दिने । रात्रौ सुप्तः श्रिया प्रोक्तः, स्थिताऽहं वत्स ! ते गृहे ।।१४।।
त्वत्पुण्यदामभिर्बद्धा, क्वाऽप्यहं गन्तुमक्षमा । उपस्थितोऽपि विघ्नस्ते, क्षीणः पुण्याऽनुभावतः ।।१५।।
शृङ्खलासदृशं पुण्यं, मर्कटीसदृशा रमा । तया नियन्त्रिता सा हि, चञ्चलाऽपि क्व गच्छति ।।१६।।
अथाऽन्यदिवसे श्रेष्ठी, कृत्वा तामपि पात्रसात् । त्यक्त्वा गृहमपि ज्ञाति-वर्गीयान्मुत्कलाय्य च ।।१७।। ..
२७९ उपदेश सप्तति