________________
"उपदेश:-१०" पंरिग्रहप्रौढशिलावलम्बिनः, पतन्ति संसारमहाम्बुधौ जनाः । सन्तोषवज्रेण विभिद्य तां पुन-स्तरन्ति विद्यापतिवत्सुमेधसः ।।१।।
पोतनाख्ये पुरे राजा, शूरः शूरपराक्रमैः । श्रेष्ठी विद्यापतिस्तस्य, भार्या शृङ्गारसुन्दरी ।।१।।
..
स्वप्ने तमेकदा लक्ष्मी-रुवाचदशमे दिने । अहं यास्यामि हे वत्स !, चिरात्त्वं मुत्कलाय्यसे ।।२।।
प्रबुद्धः सोऽपि भार्याय, तं वृत्तान्तं न्यवेदयत् । लक्ष्मीनाशे कथं कार्य-मिति चिन्तातुरः पुनः ।।३।। विशुद्धबुद्धिः साऽप्याह, यद्येवं सकलाऽपि सा । व्ययनीया सुपात्रादा-वन्य-थाऽपि हि यास्यति ।।४।।
अथ व्ययितुमारेभे, स श्रेष्ठी सकलं धनम् । . , तथाऽपि वर्द्धते किन्तु, कूपोदकमिवाऽन्वहम् ।।५।।
यथा यथा व्ययस्तस्य, गेहे वृद्धिस्तथा तथा । दीयमानोऽपि भारत्याः, कोशः किं नाम हीयते ? ।।६।।
जिनालये जिनेन्द्रस्य, पुरस्तात्तौ च दम्पती । परिग्रहव्रते मान-मेवं जगृहतुर्मिथः ।।७।।
त्रिः पूजा द्विः प्रतिक्रान्ति-भॊजनं दानपूर्वकम् । वेषयोर्युग्ममेकैव, भार्या शृङ्गारसुन्दरी ।।८।।
२७८ उपदेश सप्तति