________________
गृहे तवामुळे वर्षे, यात्रिकाः केचिदागताः । तेषामेकस्य किं रत्नं, त्वया वद हृतं न वा ? ।। ३६ ।।
उक्ते सत्ये तया तेभ्यो, भीतया ते ततो जगुः । तस्य जीवन ते दुःखं, दत्तं तद्दुःखदानतः ।। ३७।।
पश्चात्तापपरा साऽपि तेभ्यस्तद्रत्नमार्पयत् । तैरपि व्ययितं तीर्थे, गत्वा तस्य शिवेच्छया ।। ३८ ।।
तेऽपि क्रमाद्भवमिमं कृतगेहदेहत्यागाः कृशत्वमनयन्त तपोविधानैः । तन्माऽन्यमान्यजनवित्तमपाहर त्वं, संतोषसौधरसमात्मगतं कुरुष्व ।। ३९ ।।
इयं पौराणिकी वार्त्ता, मिथ्यादृग्जनोचिता । तत्त्वज्ञानां हि जैनाना-मपराधेऽप्यविक्रिया ।।४०।। .
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारेऽष्टम उपदेशः ।।८।।
२७३ उपदेश सप्तति