________________
मध्ये चतुष्पथं प्राप्ता-स्तत्रत्यक्षितिपाग्रतः । विधीयमानमैक्षन्त, नाटकं नाट्यकोविदः ।।९।।
तदा च विजनं मत्वा, रत्नं वर्द्धकिभार्यया । । विहङ्गिकास्थं सूरस्य, हृतं तज्जीवितोपमम् ।।१०।।
अतिवाह्य दिनं तत्र, नाटके तेऽपि मन्दिरे । तत्रैव सायमायाताः, वासकं चावतस्थिरे ।।११।।
प्रातः समुत्थिताः स्वाः स्वाः, असम्भाल्य विहङ्गिकाः । स्कन्धे कृत्वा पुरश्चेलु-गङ्गायां ते क्रमाद्गताः ।।१२।।
तत्र स्नादिपुण्यानि, कृत्वा श्राद्धं चिकीर्षवः । . . . क्रष्टुं प्रवृत्ताः स्वस्वानि, रत्नानि व्ययनेच्छया ।।१३।।'
सूरस्तदानीमात्मीयं, तदपश्यन्नुवाच तान् । . बान्धवाः ! मम तद्रनं, हृतं केनाऽपि पापिना ।।१४।।
एता विहङ्गिकाः प्रायः, सर्वदाऽप्यात्मसन्निधौ । अस्थापयाम तत्कस्य, कार्य सम्भावनाऽत्र भोः ! ।।१५।।
मिथो विमृश्य तां तेषा-मेकः प्राह निशम्यताम् । यदा वर्द्धकिगेहान्त-मुक्ता एता विहङ्गिकाः ।।१६।।
तदाऽऽत्मनां तत्र नृत्ये, व्यग्राणां सूत्रभृगृहे । तद्भार्यवाऽभवत्तेन, तस्याः सम्भाव्यते ह्यदः ।।१७।।
२७० उपदेश सप्तति