SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-८" हिंसा बुधैः प्राणवियोग उच्यते, प्राणाश्च बाह्या द्रविणानि देहिनाम् । हताश्च ते तेन हतानि येन चा-ऽन्यस्वानि तक्ष्णोऽत्र निदर्शनं प्रिया ।।१।। सूदा-सूरा-सूण्टा-सोना-नामान इह समहिमानः । अभवनिभ्याश्चतुरा-श्चत्वारस्तामलिप्तपुरे ।।१।। बृहत्कुटुम्बा द्रव्याढ्याः, प्रीतिभाजः परस्परम् । समानवयसो राज-सभाशृङ्गारहेतवः ।।२।। . भद्रप्रकृतयः सर्व-धर्मकर्मसु लालसाः । .. अन्योऽन्यमित्यालोचन्ते, सृजन्ति स्माऽन्यदा रहः ।।३।। अजितं द्रविणं भुक्ताः, भोगा जाता: सुतादयः । प्राप्तो मानो नृपादिभ्यो, नात्मकार्य कृतं परम् ।।४।। स्वस्थावस्थे शरीरेऽत्र, धर्मः कार्यों मनीषिभिः ।. आदीप्ते भवने कूप-खननं कः समाचरेत् ? ।।५।। विमृश्येति स्वस्वगेह-चिन्तां स्वस्वाङ्गजेष्वमी। आरोग्य तीर्थयात्रायै, चेलुः संन्यासवेषिणः ।।६।। पृथक् पृथग् लक्षमूल्यरत्नगर्भाः विहङ्गिकाः । स्कन्धे दधानास्ते मार्ग-मुल्लङ्घन्ते शनैः शनैः ।।७।। एकत्र नगरे प्राप्ता-स्तत्र सूत्रभृतो गृहे । भुक्त्वा भलापयित्वा च, तत्पन्यास्ता विहङ्गिकाः ।।८।। २६९ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy