________________
तत्राऽधिकारे कुत्राऽपि, तपोगच्छावहीलनम् । चकारात्मस्तुतिं चैष, पोलाकोऽथावदत्तदा ।।३३।।
अरे बोत्कट ! किं ब्रूषे ?, न पश्यसि महाजनम् ? । इत्युक्त्वा सहसोत्थाय, तं जघान चपेटया ।।३४।।
जातो रोषारुणो लिङ्गी, सुरत्राणसभां ययौ । वैद्योऽपि तत्र प्राप्तश्च, स्वस्ववृत्तान्तमूचतुः ।।३५।।
उभयोरपि मान्यत्वाद्-भूपो यावज्जगाद न । तावन्मदनसिंहोऽवग, देव ! काऽत्र विचारणा ? ।।३६।।
जिह्वा व्यापारितैकेना-न्यश्च हस्तमवाहयत् । एकस्य दण्डेऽन्यस्यापि, दण्डस्तन्नोभयोरपि ।।३७।।
श्रुत्वेति हसितः स्वान्ते, सान्त्वयित्वा मृदूक्तिभिः । तावुभावपि राजेन्द्रः, स्वस्थाने व्यसर्ज़यत् ।।३८।।
।
एवं यथा मदनसिंहमहेभ्य एषः, प्राणात्ययेऽपि शपथं स्वपितुर्न चक्रे । तेनार्हदादिविषये शपथो न कार्यः, सत्योऽप्यसत्य इह भव्यजनैविधिज्ञैः ।।३९।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे सप्तम उपदेशः ।।७।।
२६८ उपदेश सप्तति