________________
यतो बहूनि वर्षाणि, त्वत्पित्रा सह निर्मितः । व्यवहारो मया तेन, लभ्यं देयं च बह्वपि ।।७।।
तुरङ्गमशतं दत्त्वा, देयं निर्वालितं पुरा । औत्सुक्यात्स्वपुरे प्राप्तं, शेषं लभ्यं त्विह स्थितम् ।।८।।
कियल्लभ्यमिति प्रोक्ते, सोऽब्रवीजीर्णनाणकैः । लभ्याः सहस्रा द्वात्रिंशद्यदि युक्तिस्तदाऽर्प्यताम् ।।९।। .
सुतोऽप्याह पितुर्देयं, स्तोकमप्यथवा बहु । वहिकायां यथादृष्टा-ऽभिधानं प्रददे मया ।।१०।।
परं तत्र भवन्नाम, क्वाऽपि नाऽऽलोकितं मया । . अपि लभ्यं कथं लभ्यं ?, विना लिखितभाषितम् ।।१।।
पुनर्जगाद तं श्रेष्ठी, चित्ते हष्टोऽपि रुष्टवत् । अरे ! देयं पितुः पुत्रो, दत्ते काऽत्र विचारणा ।।१२।।
श्रेष्ठिन् ! मुधा प्रयासोऽयं, भवद्भिः क्रियते कुतः ? । साक्षिणं लिखितं वाऽपि, विना लभ्यं न लप्स्यते ।।१३।।
गतः श्रेष्ठी सुरत्राण-सभायां प्राह तत्पुरः । देव ! विज्ञप्यमस्त्येकं, यद्यत्र विजनं भवेत् ।।१४।।
राज्ञा तथाकृते सोऽवक, कृत्रिमः कलहो मया । प्रारब्योऽस्ति परीक्षार्थ, जगत्सिंहाङ्गजन्मना ।।१५।।
२६५ उपदेश सप्तति