________________
कथं वेत्सीति भूपेन, पृष्टः श्रेष्ठी पुनर्जगौ । आबाल्याभ्यासतो वस्तु - परीक्षा शिक्षिता मया ।। ३६ ।।
एवं हि पुण्यविषये, परीक्षा युज्यते सताम् । बाह्यवस्तु परीक्षासु, मोदते न मनो मम ।। ३७ ।।
इत्थं तदुक्तितः प्रीतः प्रसादं स्फीतमातनोत् । तस्मै सपादलक्षीय-क्ष्मापाय च स भूमिराट् ।।३८ ।।
एवं पञ्चाऽऽराधयन्पुण्यवेलाः, यावज्जीवं सत्यभाषां च जल्पन् ! जैनं जाग्रच्छासनं भूरिकालं, चक्रे श्रेष्ठी श्रीजगत्सिंहनामा । । ३९ ।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे षष्ठ उपदेशः । । १६ ।।
२६३ उपदेश सप्तति