________________
इति प्रोच्य पुनर्दान - पूर्वं तं विससर्ज सः । औचित्याचरणे सन्तः, किं मुह्यन्ति कदाचन ? ।। २७ ।।
सपादलक्षक्ष्मापालो -S - ऽन्यदा सेवार्थमागतः । सुरत्राणपुरो वस्तु-द्वयं ढौकितवानिदम् ।। २८ ।।
चान्दनं शकलं मुक्ता-फलद्वन्द्वं च निर्मलम् । दृष्ट्वा तदल्पं भूपस्तु, क्षणं रुष्ट इवाऽभवत् ।। २९ ।।
पश्यन्ति सभ्याः सर्व्वेऽपि न तु कोऽपि परीक्षयेत् । दध्यौ सपादलक्षीयो - प्यहो ! मूर्खा अमी जनाः ।। ३० ।।
अथोवाच जगत्सिंहो, द्वयमेतदमूल्यकम् । चान्दनस्याऽस्य खण्डस्य, पूर्वं माहात्म्यमुच्यते ।। ३१ ।।
अग्नितप्तं शतमण - प्रमाणमपि जायते । एतत्खण्डेऽपि मध्यस्थे तैलं हिमकणोपमम् ।। ३२ ।।
किञ्च षण्मासिकेनापि ज्वरेण विधुरीकृतः । घृष्ट्वैतच्छकलं पीत्वा भवेज्जन्तुर्निरामयः ||३३||
कौतुकं मौक्तिकद्वन्द्व - स्यापि देवाऽवधार्यताम् । विक्रीयैकतरद्वैती-यीकं ग्रन्थौ निबध्यते ।। ३४ ।।
अवश्यं तच सन्ध्यायां, मिलत्युत्सुकमित्रवत् । श्रुत्वेति विस्मितो भूपः, परीक्षां कृतवांस्तयोः ।। ३५ ।।
२६२ उपदेश सप्तति