________________
सेवकस्य ततस्तस्य, रहः सौवर्णटङ्ककम् । दापयित्वा निजाः पुण्य-वेला साधितवानसौ ।।१८।।
यतो भवे भवे लक्ष्मी:, प्राप्यते भववृद्धिकृत् । . न तु श्रीधर्मसामग्री, क्षयमेति भवो यथा ।।१९।।
इत्येकविंशतिदिनां-स्तावट्टङ्ककदापनात् । स्वकृत्यान्यकरोद्धा-दरो लोकोत्तरी ह्यसौ ।।२०।।
प्रसन्नोऽथ सुरत्राण-स्तं निजाङ्गविभूषणैः । पञ्चवर्णदुकूलश्च, पञ्चशः पर्यधापयत् ।।२१।।
ततश्चामन्दवाद्यौघै-बहुलोकैश्च संयुतः । ... श्रेष्ठी स्वगृहमायातो, ददानोऽर्थितमर्थिषु ।।२२।।
क्रमेण विजने जाते, रक्षकोऽपि स टङ्ककान् । भूपादिभीतः प्रारेभे-ऽपयितुं गृह्यतामिति ।।२३।। .
श्रेष्ठ्यप्युवाच तं भद्र !, मया तेऽमी समर्पिताः । तत्त्वमेतान्यथाकामं, दत्स्व भुक्ष्व सुखी भव ।।२४।।
यत्ते प्रसादतो धाऽ-नुष्ठानं विदधे मया । एकोऽपि धर्मसम्बन्धी, क्षणः कोट्यापि दुर्लभः ।।२५।।
तेषु पञ्च मयैकेन, टङ्ककेन कृतार्थिताः । तत्तेऽधिकमपि द्रव्यं, दीयते गृह्यते कथम् ? ।।६।।
२६१ उपदेश सप्तति