________________
ततस्तुष्टेन भूपेन, लक्षषोडशकार्पणात् ।
कृतः कोटीध्वजः श्रेष्ठी, सत्यस्याहो ! फलं कियत् ? ।।९।।
एकदा दर्शयामास, रत्नं तस्यार्कसोदरम् । भूपः स्वकोशादानाय्य, तं प्रत्येवमुवाच च ।। १० ।।
एतस्य सदृशं रत्नं, किमन्यद्विद्यते भुवि ? | सोऽप्याह किं घरामध्ये, पातसाहद्वयं भवेत् ? ।। ११ । ।
तद्वचोरञ्जितस्तस्याऽर्पयत्तद्रत्नमुत्तमम् । न्यासार्थं नहि भेदः स्याद्, द्वयोः प्रीतिः स्थिरान्तरा । । १२ । ।
इति प्रीत्या तयोः काले, कियत्यपि गते सतिं । केनापि हेतुना राजा, रुष्टस्तं प्रत्यथैकदा ।। १३ ।।
सम्पदो महतामेव, तेषामेव स्युरापदः । नीचास्तादृग्विधा एव, चन्द्रधिष्ण्यनिदर्शनात् ।।१४ । ।
शीर्षस्य पुष्पाभरणं, मुण्डनं च विधीयते । न चयापचयौ स्यातां, भ्रुवोः केशेषु कर्हिचित् ।।१५।।
ततस्तं श्रेष्ठिनं भूपो, गुप्तिवेश्मन्यधारयत् । स्वकीयं तस्य रक्षार्थं, सेवकं च न्ययोजयत् ।। १६ ।।
तदा च श्रेष्ठिनः पञ्च-वेलाधर्म्मव्यतिक्रमः । दोदूयाकृन्न तु क्ष्माप-स्थापनात्परतन्त्रता ।।१७।।
२६० उपदेश सप्तति