________________
"उपदेशः ६ "
पूजात्रयावश्यकयुग्मरूपा, यो लग्नवत् प्रत्यह पञ्च वेलाः । सत्यापयेत्स प्रवरस्तनूमान्, बुधैर्जगत्सिंह इव प्रशस्यः ।।१।।
श्रीपीरोजसुरत्राण-सभाशृङ्गारकारणम् । जगत्सिंह इति श्रेष्ठी, सञ्जातो योगीनीपुरे । । १ । ।
अखिलेऽपि पुरे ख्यातः, स एकः सत्यवादिनाम् । असत्यवादिना प्रायो, न प्रतिष्ठा ह्यवाप्यते । । २ । ।
स्याद्वह्नावपि शीतत्वं, पवनेऽपि स्थिरात्मता । तथाऽपि प्रेक्ष्यते तत्र, जातु नाऽसत्यवादिता । । ३ । । .
तस्येति ख्यातिमाकर्ण्य, परीक्षायै कृतादरः । अपृच्छद्दुर्ज्जनान् भूपो, रहस्तन्मर्मवेदिनः || ४ ||
भो भोः ! निगद्यतामस्य, श्रेष्ठिनोऽस्ति कियद्धनम् ? | तेऽपि द्रोहपरा ऊचु- र्लक्षा: सप्ततिसंख्यया ।।५ ।।
कियद्दिनान्तरे भूप - स्तमुवाच कियद्धनम् । विद्यते तव ? सोऽप्याह, विमृश्य कथयिष्यते ।। ६ ।।
दिने द्वितीये सम्भाल्य, गृहोपस्करमाह सः । अब्ध्यष्ट ८४ लक्षसंख्या मे, सन्ति वित्तस्य भूपते ! ।।७।।
एष प्रागुक्तसंख्यातोऽधिकोक्त्या सत्य एव यत् । प्रायः स्वद्रव्यसंख्यायां, स्तोकः स्यात्सत्यवादकः ||८||
२५९ उपदेश सप्तति