________________
सौवर्णवलयव्यूहः, शोभमानभुजालता । स्वपति वीक्षितुं बन्धु-मत्यपि प्रस्थिता सह ।।१५।।
श्रेष्ठिनः पृष्ठिगामिन्या-स्तस्याः कोऽपि करौ तदा । चिच्छेद तस्करो लुब्धः, प्राकृतं कर्म नान्यथा ।।१६।।
सञ्जाते तुमुले तत्र, प्राप्तास्तलवरादयः । शाप्तस्वरूपास्तचौर-पदैरेव दधाविरे ।।१७।।
श्रेष्ठी पश्चातो गेहे, प्रभूतो मिलितो जनः । उझरन्कर्म कर्मेति, विदधे शोकसङ्कथाम् ।।१८।।
इतश्च चौरोऽप्यासन-प्राप्तांस्तान्वीक्ष्य विह्वलः। . तद्देवकुलमायातः, सुप्तः प्रागस्ति यत्र सः ।।१९।।
लोप्नं तस्यान्तिके मुक्त्वा, काकनाशं ननाश सः । भटैश्चौरोऽयमेवेति, ज्ञातं तद्वस्तुदर्शनात् ।।२०।। .
निर्विलम्बं निर्विचारं, शूलायामधिरोपितः । स तैरिति विडम्ब्यन्ते, कर्मभिः के न जन्तवः ? ।।२१।।
अथ श्रेष्ठी सुताशोक, कृत्वा प्राप्तस्तदन्तिकम् । यावत्तावदयं प्राणे-रुज्झाञ्चक्रे खलैरिव ।।२२।।
दृष्ट्वा तादृगवस्थं तं, तान् जगाद स दुःखितः । भवद्भिः किं कृतं ? भो भोः !, जामातैव हतो मम ।।२३।।
२५६ उपदेश सप्तति