________________
"उपदेशः-५" विचार्य वाच्यं वचनं हितं मितं, न कळशं क्वापि निगद्यते बुधैः ।। अप्येकशः प्रोक्तकठोरवाक्यतो, न किं विगुप्तौ जननी सुतावपि ।।१।।
छिनधि हस्तौ चरणौ च लोचने, निष्काशयामि त्वमरे ! म्रियस्व वा । इत्यादयः कर्कशवाक्परम्परा-स्त्याज्या बुधैर्दुर्गतिमार्गदीपिकाः ।।२।।
ताम्रलिप्तीपुरी ताम्र-मयवप्रविराजिता । तत्रेभ्यो रतिसारातो, बन्धुला तस्य च प्रिया ।।१।।
तयोर्बन्थुमती पुत्री, प्रकृत्योद्भटवेषभाक् । सौवर्णसर्वाभरणा, श्रेष्ठिनोऽत्यन्तवल्लभा ।।२।।
तां प्रत्याह पिता वत्से !, मा कार्वेषमुद्भटम् । . नेदृशो वणिजां भाति, सा तथाऽपि न तिष्ठति ।।३।।
भृगुकच्छपुरात्तत्र, वाणिज्यार्थमुपेयुषा। . बन्धुदत्तेन साऽन्येद्युः, परिणीता सदुत्सवैः ॥४॥
पुनः प्रभूतलाभार्थी, तां तत्रैव विमुच्य सः । रत्नद्वीपं प्रति प्रास्थात्, पोतमारुह्य वारिधौ ।।५।।
कियत्यपि व्यतिक्रान्ते, भूभागे तस्य वाहनम् । आहन्यमानं कल्लोले-र्भङ्गमाप क्षणादपि ।।६।।
२५४ उपदेश सप्तति