________________
2
निष्पन्नं रसवत्यादि, बुभुजे तत्कुटुम्बकम् । ममार विषमिश्रत्वा दाहारस्याखिलं च तत् ।।२७।।
यावत्सम्भ्रमाः प्रातः, पश्यन्ति श्वशुरादयः । तावत्पतितमैक्षन्त, व्यापन्नं तत्र पन्नगम् ।।२८।।
नूनमेष भ्रमन्नूर्ध्व, धूमेन व्याकुलीकृतः । पपात धान्यस्थाल्यन्त- रिति निश्चिक्रेि च तैः ।। २९ ।।
हहा ! चन्द्रोदयाभावा-दनर्थोऽयं महानभूत् ।
वध्वा एव प्रसादेन, पुनरुज्जीविता वयम् ।। ३० ।।
मेनिरे भक्तिनम्रास्ते, वधूं श्रीदेवतामिव । सम्मान्य स्वं गृहं निन्युः, श्रावकत्वं च भेजिरे । । ३१ । ।
भद्राः ! पञ्चशतव्याधै-र्यावत् पापं विधीयते । तावचन्द्रोदयाऽबन्धे, गृहिभिर्ज्ञानिनो जगुः ।। ३२ ।।
इत्यादि तस्याः शिक्षाया-मायुक्तास्तेऽभवंश्चिरम् । तस्यास्तु यः पतिस्तत्र, स त्वमत्र नृपोऽभवः ।। ३३ ।।
जीवस्तु मृगसुन्दर्याः, सेयं भार्या तवाऽजनि ।
यस्याः प्रभावतो व्याधि-र्गतस्ते सप्तवार्षिकः ।। ३४ ।।
सप्तशो ज्वालनाचन्द्रो दयानां सप्तवार्षिकः । कुष्ठरोगोऽभवत्प्राच्यं, नान्यथा यद्यथाकृतम् ।।३५।।
२५२ उपदेश सप्तति