SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ किं कुर्वे ? धर्ममेतेभ्यः, कर्तुं नाहं लभे विभो । श्रीसिद्धान्तमथाऽऽलोक्य, तेऽपि तामेवमभ्यधुः ।।१८।। पञ्चतीर्थीपञ्चसाधु-प्रणतिप्रतिलाभनैः। यादृशं प्राप्यते पुण्यं, भद्रे ! तादृशमाप्यते ।।१९।। चुलहोकपरि निश्छिद्र-पृथुवस्त्रस्य बन्धनात् । आकयेति गता गेहं, तथैव कुरुते स्म सा ।।२०।। युग्मम् ।। अथ चन्द्रोदयं दृष्ट्वा, वधूटीं श्वशुरोऽब्रवीत् । किमिदं कार्मणं पापे !, स्वकुलक्षितये कृतम् ? ।।२१।। . सा प्राह ननु जीवानां, रक्षणार्थोऽयमुद्यमः ।' तद्वचोऽमन्यमानेन, पत्या प्रज्वालितः स तु ।।२२।। , पुनस्तया बबन्धेऽसौ, तेनाऽज्वालि तथैव सः । एवं सप्त तया बद्धाः, ज्वालिताश्च दुरात्मना ।।२३।। अवादीत् श्वशुरः क्रुद्धो, गच्छ रे ! स्वपितुर्गृहम् । साऽप्यवोचदहं प्राप्ता, सकुटुम्बा भवगृहे ।।२४॥ तथैव प्रेषणीयाऽहं, नूनं याम्यन्यथा कथम् ?। सजीबभूवुः सर्वेऽपि, तस्याः सम्प्रेषणाय ते ।।२५।। मार्गे स्वकीयेनैकेन, भुक्त्यर्थं ते निमन्त्रिताः । रात्रौ वध्वा अभुक्तत्वा-त्र भुक्ताः श्वशुरादयः ।।२६।। २५१ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy