SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठराज ! विमुचैनं विलम्बः क्षमते नहि । इत्यादि द्विजलोकानां, बहूक्ते सोऽब्रवीत्तदा ।। २६ ।। नाश्नन्त्यभक्ष्यं भो लोकाः !, सुरा अमृतभोजिनः । क्रीडामात्रमिदं तेषां जीवहिंसाविधापनम् ।।२७।। इत्याख्याय स लोकानां द्विजानां च कदाग्रहात् । अमोचयद्यममुखा - दिव मां सैरभात्ततः ।। २८ ।। ततो मे मण्डिता मूर्त्तिः, प्रासादे ब्राह्मणोत्तमैः । एवं मे महिमा सर्वो, ध्वस्तो ऽनेन दुरात्मना ।। २९ ।। माकार्षीरसमाधिं तन्मौनमेव समाचर । निःशूके निर्दये पुंसि, देवा अपि हतौजसः ।। ३० ।। - देवी स्वस्थानकं प्राप्ता, सीहडव्यन्तरोऽपि सः । तत्कुटुम्बं परित्यज्य, रेमेऽन्यत्र निजेच्छया ।। ३१ ।। सम्यक्त्वमेवं चिरमेष पालयन्, प्रबोधयन् भद्रकजन्तुसन्ततीः । प्रभावयंश्चार्हतशासनं क्रमा-ल्लोकद्वयेऽप्यद्भुतसौख्यभागभूत् ।।३२।। ।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे तृतीय उपदेशः । । ३ । । २४८ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy