________________
श्रेष्ठराज ! विमुचैनं विलम्बः क्षमते नहि । इत्यादि द्विजलोकानां, बहूक्ते सोऽब्रवीत्तदा ।। २६ ।।
नाश्नन्त्यभक्ष्यं भो लोकाः !, सुरा अमृतभोजिनः । क्रीडामात्रमिदं तेषां जीवहिंसाविधापनम् ।।२७।।
इत्याख्याय स लोकानां द्विजानां च कदाग्रहात् । अमोचयद्यममुखा - दिव मां सैरभात्ततः ।। २८ ।।
ततो मे मण्डिता मूर्त्तिः, प्रासादे ब्राह्मणोत्तमैः । एवं मे महिमा सर्वो, ध्वस्तो ऽनेन दुरात्मना ।। २९ ।।
माकार्षीरसमाधिं तन्मौनमेव समाचर । निःशूके निर्दये पुंसि, देवा अपि हतौजसः ।। ३० ।। -
देवी स्वस्थानकं प्राप्ता, सीहडव्यन्तरोऽपि सः । तत्कुटुम्बं परित्यज्य, रेमेऽन्यत्र निजेच्छया ।। ३१ ।।
सम्यक्त्वमेवं चिरमेष पालयन्, प्रबोधयन् भद्रकजन्तुसन्ततीः । प्रभावयंश्चार्हतशासनं क्रमा-ल्लोकद्वयेऽप्यद्भुतसौख्यभागभूत् ।।३२।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे तृतीय उपदेशः । । ३ । ।
२४८ उपदेश सप्तति