________________
आलोड्य जलधिं सर्वं मयाऽपि निजशक्तितः । तान्यानीतानि हर्षोऽभूत्, सर्वेषामपि चेतसि ।।१७।।
तन्मध्यागतवस्तूनां कुर्वतः क्रयविक्रयम् । भूयान् यदभवल्लाभो, ममैव स्फुर्जितं हि तत् ।।१८।।
भ्राताऽप्यवसरे प्राह श्रेष्ठिनोऽग्रे स्वमानितम् । एष धूर्त्तस्तमाचष्ट, करिष्ये तव मानितम् ।।१९।।
आनीय तरुणं चैकं, महिषं मम मन्दिरे । गृहाण भक्ष्यं यक्षेदं, यद्भ्रात्रा तव मानितम् ।।२०।।
उक्त्वेति तस्य कण्ठस्य-रज्जुं मे गलकन्दले । बबन्ध निबिग्रन्थि - दानपूर्व्वं दुराशयः । । २१ । ।
पूजादिविस्तरान्नैकान्, भक्तिव्याजादचीकरत् । भेरीप्रमुखवाद्यानि मत्पुरोऽवादयत्तथा । । २२ ।। -
तद्ध्वनि श्रवणात्त्रस्तो, महिषो मे कदर्थनाम् । तथा चक्रे यथा मेऽभूत्, सर्वाङ्ग क्षतसन्तति ।। २३ । ।
एकतो महिषः पापी, मामाऽऽकर्षति लेष्ठुवत् । अन्यतः कौतुकी लोको, दत्ततालं जहास च ।।२४।।
अत्रान्तरे हाहाकार - मुखराः शतशो द्विजाः । दधाविरे कुतोऽस्माकं, देवोऽयं तु विडम्ब्यते ।। २५ ।।
२४७ उपदेश सप्तति