________________
क्रमेण तनये जाते, भर्तुस्तदुपयाचितम् । तयोक्तं तद्वचो मेने, सोऽपि तस्याः कदाग्रहात् ।।८।।
श्रेष्ठी त्रिलक्षनिष्पन्न-सौवर्णकुसुमत्रयम् । निर्माप्य रत्नजटितं, सपौरः सकुटुम्बकः ।।९।।
देवीभवनमागत्य, पूजापूर्व सविस्तरम् । तां भाले भुजयोः पुष्प-त्रयन्यासादपूपुजत् ।।१०।।
स्वस्य पन्याः शिशोश्चैष, शेषार्थं कुसुमत्रयम् । दत्त्वा गृहीत्वा स्वं धामा-ऽऽजगाम दृढदर्शनः ।।११।।
दृष्ट्वा शठचरित्रं तद्, विलक्षा व्यन्तरी जगौ। . . एकान्ते निजमित्रस्य, सीहडस्य स्वदुःखितम् ।।१२।।'
किं करोमि ? शठेनाऽहं, वणिजाऽनेन वञ्चिता । पुष्याणां पूजया युक्ति-पूर्वं तद् ग्रहणेन च ।।१३।। ,
सीहडोऽपि सदुःखां तां, जगौ त्वं छुटिता मुधा । शृणु मुर्खे ! चरित्रं मे, यथाऽनेन कदर्थितः ।१४।।
पुरा प्रवहणान्यस्य, गतप्रायाणि जज्ञिरे । न शुद्धिः काऽप्यभूत्तेषां, सुबह्वपि गवेषिता (?) ।।१५।।
ततः प्रच्छन्नमेतस्य, बन्धुर्मह्यममानयत् । महान्तं महिषं पोत-क्षेमगमनकाया ।।१६।।
२४६ उपदेश सप्तति