________________
"उपदेशः-३" यस्याऽस्ति धर्मे दृढता पराभवं, न व्यन्तराद्या अपि तेषु कुर्वते । देवी च देवश्च वणिग्वरेण, न वञ्चितौ किं निजशुद्धबुद्ध्या ? ।।१।।
अभूदेवपुरे श्रेष्ठी, कुलानन्दः कुलोत्तमः । जिनधर्मदृढः कोटी-ध्वजोक्षोभ्यः सुरैरपि ।।१।।
पुत्राऽभावात् परं किञ्चित्सचिन्तं तं जनाः जगुः । पुराऽधिष्ठायिका सत्य-प्रत्यया वर्त्तते सुरी ।।२।।
किं नोपयाचितं तस्याः ?, मन्यते किं धनैर्घनैः ? । इत्यादि लोकेरुक्तोऽपि, श्रेष्ठी तु प्रति वक्ति तान् ।।३।।
भो मूर्खाः ! एकशो भक्ति-र्यक्षादीनां क्रियेत चेत् । पुनः पुनस्तदीप्सायां, तेषां किं सुखमात्मनः ? ।।४।।
यतः -
"वेसाण वंदिआण य, माहणडुंबाण जक्खरक्खाणं । भत्ता भक्खट्ठाणं, विरयाणं जंति दूरेण ।।१।।" . इत्यादि तत्त्ववार्ताभि-दृढीकुर्वन्निज मनः। जनैः प्रभूतैरुक्तोऽपि, सम्यक्त्वे निश्चलोऽभवत् ।।५।। पत्नी तु मुग्धभावेन, श्रुत्वा तल्लोकभाषितम् । देवीभवनमागत्य, स भक्त्यैवं वचो जगौ ।।६।।
मातमें त्वत्प्रसादेन, तनयो भविता यदि । लक्षत्रयमयीं पूजां, ढौकयिष्यामि ते तदा ।।७।।
२४५ उपदेश सप्तति