________________
ममाऽप्यहो ! नृशंसस्य, प्रतिबोधः प्रकाशितः । कपोतेन स्वमांसानि, ददानेन महात्मना ।।२४।।
निष्कारुण्येष्वहं मौलि-रयं च सदयात्मसु । ध्यात्वेति भग्नवानेष, पञ्जरं पापमन्दिरम् ।।२५।।
कपोतीं तां विमुच्येष, वराकीमात्ममन्दिरे । गत्वा कुटुम्बं व्युत्सृज्य, तापसव्रतमग्रहीत् ।।२६।।
तप्यमानस्तपस्तीव्र, दवादप्यन्यदा वने । अभीतः प्रतिमास्थोऽसौ, तद्दग्धो मृत्युमाप्तवान् ।।२७।।
कपोत्यपि कपोतेन, वियुक्ता विरता भवे। दयाधर्मरता काले, प्राप प्रेतपतेर्गृहम् ।।२८।।
एवं त्रयोऽपि ते जीवाः, दयाधर्मपरायणाः । . दिवि देवा अजायन्त, पश्यताऽहो ! दयाफलम् ।।२९।।
इति पौराणिकः सोऽयं, सम्बन्धो लिखितो मया । अनुकम्पा ततः कार्या, सर्वैः सर्वेषु जन्तुषु ।।३०।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे द्वितीय उपदेशः ।।२।।
२४४ उपदेश सप्तति