________________
तत्र प्राप्तः स यत्राऽस्ति, लुब्धकः शीतमूर्छितः । ततः शुष्केषु पर्णेषु, तमाशु समदीपयत् ।।१५।।
तापयस्वाऽत्र विश्रब्धं, स्वाङ्गनीत्याह लुब्धकम् । पक्षिणामप्यहो ! लोको-त्तरा काऽप्युपकारधीः ।।१६।।
किञ्चिदुत्पन्नचैतन्यं, कपोतो व्याधमब्रवीत् । न मेऽस्ति विभवः कश्चि-येन ते नाशये क्षुधम् ।।१७।।
सहस्रम्भरयः केचि-त्कचिल्लक्षम्भरिनरः । मम त्वकृतपुण्यस्य, क्षुद्रस्याऽऽत्माऽपि दुर्भरः ।।१८।।
एकस्याऽप्यतिथे ज्यं, प्रदातुं क्षमते न यः । । तस्याऽनेकपरिक्लेशे, गृहे किं वसतः फलम् ? ।।१९।। '
तत्तथा साधयाम्येत-च्छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि, नास्तीत्यर्थिसमागमे ।।२०।। ,
गृहाण त्वं मदीयं च, भटित्रीभूतमामिषम् । इत्युक्त्वाऽग्नौ पपातैष, भस्मसाच क्षणादभूत् ।।२१।।
लुब्धकोऽपि तदा दध्यौ, कोप्ययं करुणापरः । कपोतो योऽग्निसाचक्रे, स्वकायं मत्कृते हहा ! ।।२२।।
यः करोति नरः पापं, न तस्याऽऽत्मा ध्रुवं प्रियः । आत्मना हि कृतं पापमात्मनैव हि भुज्यते ।।२३।।
२४३ उपदेश सप्तति