________________
स्वप्राणवृत्तिं कुर्वाणा, कपोती तेन पापिना। निबध्य पञ्जरे क्षिप्ता, किमकृत्यं न पापिनाम् ? ।।६।।
इतश्च हिमसंसिक्त-सवातजलवृष्टिभिः । वेपमानवपुर्व्याधः, सायं तं वृक्षमाश्रितः ।।७।।
असह्यस्फीतशीतेन, व्याप्यमानवपुः क्रमात् । मूर्छामतुच्छां स प्राप-दहो ! पापफलं महत् ।।८।।
कपोती पञ्जरान्तस्था, वृक्षकोटरगं तदा । कपोतं स्वप्रियं प्राह, ममैकं त्वं वचः शृणु ।।९।।
एष शाकुनिकः शेते, तवाऽऽवासं समाश्रितः । . . . शीतार्तश्च क्षुधार्त्तश्च, तदस्मै हितमाचर ।।१०।। ,
मत्प्रियाऽनेन बद्धति, मा चाऽस्मै त्वं रुषं कृथाः । स्वकृतैरेव बद्धाह, प्राक्तनैः कर्ममर्मभिः ।।११।। . ,
दारिद्र्यरोगदुःखानि, बन्धनव्यसनानि च । . आत्माऽपराधवृक्षस्य, फलान्येतानि देहिनाम् ।।१२।।
ततस्त्वं द्वेषमुत्सृज्य, मद्वन्धनसमुद्भवम् । धर्मे मनः स्थिरं कृत्वा, जीवयैनं च भोजय ।।१३।।
अग्निस्थाने ततो गत्वा, ज्वलत्काष्ठतृणादिकम् । निजशक्त्यनुमानेन, चञ्च्वाऽऽदाय स सत्वरं ।।१४।।
२४२ उपदेश सप्तति