SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ कर्पूरागुरुककोलकस्तूरीसिल्हकादिकाम् । समग्रां धूपसामग्री, तृतीयः प्रीतितः सृजेत् ।।१७।। चतुर्थः शालिगोधूम-प्रमुखानुज्वलच्छवीन् । अक्षतानक्षतं सौख्य-मिच्छुर्देवाय ढोकते ।।१८।। । चम्पकाशोकपुन्नाग-शतपत्राम्बुजादिकैः । गुञ्जद्विरेफैः पुष्पौधैः, पूजां पञ्चम आचरेत् ।।१९।। षष्ठस्तु बान्धवो दीपं, कुरुते घृतपूरितम् । निराकर्तुमिव स्वीयं, तमस्तोमस्य विस्तरम् ।।२०।। नानाजातीयपक्कान-परमानादिढौकनैः। .. नित्यं कृतार्थमात्मानं, निर्मिमीते तु सप्तमः ।।२१।। बीजपूरकजम्बीर-पूगीफलपुरस्सराम् । नालिकेरफलैराठ्यां, फलाली ढोकतेऽष्टमः ।।२२।। एवमेकैकभेदेन, मध्याह्नेऽष्टविधाममी । कुर्वन्तोऽर्चा स्वपरयोः, सम्यक्त्वं निश्चलं व्यधुः ।।२३।। अभिग्रहममुं तेषां, सर्वदाप्यनुतिष्ठताम् । पञ्चविंशतिलक्षाणि, पूर्वाणां व्यतिचक्रमुः ।।२४।। अथ मासावधि प्रान्तेऽनशनं प्रतिपाल्य ते । पूर्णायुष्काः सुरा यूयं, जाताः शुक्रसुरालये ।।२५।। २१ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy