________________
"उपदेशः-२" साम्राज्यमारोग्यमनेकसम्पदः, प्रधानरूपं शुभमायुरायतम् । जीवाऽनुकम्पा परचेतसां नृणां, भवे भवे स्युः किमिहोच्यते बहु ।।१।।
वेदे पुराणे स्मृतिषु प्ररूप्यते, यस्याः प्रधानत्वमनेककोविदः । विशिष्य तु श्रेष्ठतमे जिनागमे, कस्को न तां जीवदयां हि मन्यते ? ।।२।।
श्रूयते हि कपोतेन, शत्रुरप्यात्ममन्दिरे । प्राप्तो निमन्त्रितः स्वीय-मांसः सदयचेतसा ।।३।।
कपोतदम्पती क्वापि, कानने कान्तपादपे । निवासं कुरुतः काम-मन्योऽन्यमनुरागिणौ ।।१।।
वने तत्राऽन्यदा कोऽपि, ज्ञानी साधुः समाययो । लाभं ज्ञात्वा तयोरग्रे, स चक्रे धर्मदेशनाम् ।।२।।
श्रुत्वा तस्य मुनेर्वाक्यं, तत्कपोतयुगं तदा । . तन्वद्यथोचितं धर्म, समया कुरुते क्रमात् ।।३।।
माघमासेऽन्यदा तत्र, लुब्धकः कश्चिदाययौ । कृतान्ततुल्यः क्रूरात्मा, सपाशो हस्तपञ्जरः ।।४।।
स्थाने स्थाने च कुर्वाणः, स पापी पक्षिबन्धनम् । आयातस्तत्र यत्रास्ति, तत्कपोतयुगं मुदा ।।५।।
२४१ उपदेश सप्तति