________________
प्राच्यावस्थां निजां तेन, स्मरता हृदि मण्डिताः । सज्जीकृतान्नपानाद्याः, सत्रगेहाः पदे पदे ।। २६ । ।
रङ्कादारभ्य भूपान्तं, मनुष्यान् लक्षसम्मितान् । तदा सन्तोषयामास साधूंश्चापि सहस्रशः ।। २७ ।।
दानपुण्यमखण्डं त-ज्जीवितावधि स व्यधात् । भवेऽत्र तदसौ जातः, आधारः सर्वभूस्पृशाम् ।। २८ ।।
दुर्भिक्षमभविष्य-ज्जातो नाऽभूदयं शिशुः । यदैषमोऽन्यदेशेषु, स्तोका एवाभवन् घनाः ।।२९।।
अतो नैमित्तिकः सत्य-स्त्वमेतं माऽवहीलय । श्रुत्वेति विस्मितो राजा, सूरीन्नत्वा गतो गृहम्
।।३०।।
आनाय्य बालकं चक्रे, तमेव नृपतिं नृपः । औचित्याऽऽचरणे सन्तः, किं मुह्यन्ति कदाचन ? ।।३१।।
यस्याऽऽधारे प्रवर्त्तन्ते, प्रजाः सौख्यसमृद्धिभिः । स एव कीर्त्यते राजा, इति स्मृतिवचो यतः ।। ३२ ।। धर्म्मराज इति प्रत्त-नामा भूपमुखैर्जनैः । बालोऽप्यभवद्राजा, बालार्क इव तेजसा ।। ३३ ॥
तदाज्ञा यत्र देशेऽभूत्, दुर्भिक्षं तत्र नाऽभवत् । विक्रीयाऽन्येषु देशेषु, धान्यानि द्युम्नमर्जितम् ।। ३४ ।।
एवं स धर्म्मप्रवणः प्रभावनां, चक्रे चिरं श्रीजिनराजशासने ।
प्रान्ते परिव्रज्य तपोभिरुत्कटः, स मोक्षसौख्यं समवाप भूपतिः ।। ३५ ।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे प्रथम उपदेशः । । १ । ।
२४० उपदेश सप्तति