________________
वरसेनोऽपि शुश्रूषु-स्तेषां पूर्वभवादिकम् । स्वामिना कथ्यमानां तत्-कथामाकर्णयेदिति ।।८।।
पुरा हि धातकीखण्डे, महालयपुरे वरे । । इभ्यः सुदत्त इत्यासी-त्पनी तस्य तु रुक्मिणी ।।९।।
धनो १ ऽथ विमलः २ शङ्ख ३, आरक्षो ४ वरसेनक: ५ । शिवश्च ६ वरुणश्चैव, सुयशा ८ श्चाष्ट तत्सुताः ।।१०।।
अन्येधुरष्टभेदायाः, पूजायाः फलमुत्तमम् । व्याख्यायमानं सूरीन्द्रः, शृण्वन्ति स्मेति ते मुदा ।।११।।
वरगंध'धूव' चुक्खक्खएहि कुसुमेहि पवरंदीवेहि नेवेज़' फल जलेहिं ८, जिणपूआ अट्ठहा भणिआ ।।१२।।
जो पूएइ तिसंज्झं, जिणिंदरायं सयावि गयदोस । सो तइयभवे सिज्झइ, अहवा सत्तट्ठमे जम्में ।।१३।।।
इत्यादिदेशनां श्रुत्वा, तैरष्टाभिरपि स्फुटम् । संभूयैकैकभेदस्य, नियमः प्रत्यपद्यत ।।१४।।
तेषु प्राच्यः पवित्रात्मा, प्रातरानयते पयः । श्रीजिनस्याभिषेकाय, निर्मलं निजचित्तवत् ।।१५।। "
चन्दनं स्वर्णकचोले, न्यस्य मर्दितकेसरम् । कर्पूरवासितं कृत्वा, द्वितीयः पुनरानयेत् ।।१६।।
२०
उपदेश सप्तति